🪷 उत्तरकाण्ड · Sarga 97

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 97 · 27 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.97.1
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ।। ७.९७.१ ॥
Vālmīki 7.97.2
एवमेतन्महाभाग यथा वदसि धर्मवित् ।प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ।। ७.९७.२ ॥
Vālmīki 7.97.3
प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ ।शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।लोकापवादो बलवान्येन त्यक्ता हि मैथिली ।। ७.९७.३ ॥
Vālmīki 7.97.4
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ।। ७.९७.४ ॥
Vālmīki 7.97.5
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ।शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ।। ७.९७.५ ॥
Vālmīki 7.97.6
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ।सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ।। ७.९७.६ ॥
Vālmīki 7.97.7
पितामहं पुरस्कृत्य सर्व एव समागताः ।। ७.९७.७ ॥
Vālmīki 7.97.8
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः ।गन्धर्वाप्सरसश्चैव सर्व एव समागताः ।। ७.९७.८ ॥
Vālmīki 7.97.9
साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः ।नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः ।सीताशपथसम्भ्रान्ताः सर्व एव समागताः ।। ७.९७.९ ॥
Vālmīki 7.97.10
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ।। ७.९७.१० ॥
Vālmīki 7.97.11
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ।। ७.९७.११ ॥
Vālmīki 7.97.12
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ।। ७.९७.१२ ॥
Vālmīki 7.97.13
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः ।मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ।। ७.९७.१३ ॥
Vālmīki 7.97.14
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी ।अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ।। ७.९७.१४ ॥
Vālmīki 7.97.15
यथा ऽहं राघवादन्यं मनसापि न चिन्तये ।तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१५ ॥
Vālmīki 7.97.16
मनसा कर्मणा वाचा यथा रामं समर्चये ।तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१६ ॥
Vālmīki 7.97.17
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ।तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१७ ॥
Vālmīki 7.97.18
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ।। ७.९७.१८ ॥
Vālmīki 7.97.19
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ।। ७.९७.१९ ॥
Vālmīki 7.97.20
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ।। ७.९७.२० ॥
Vālmīki 7.97.21
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ।पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ।। ७.९७.२१ ॥
Vālmīki 7.97.22
साधुकारश्च सुमहान्देवानां सहसोत्थितः ।साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ।। ७.९७.२२ ॥
Vālmīki 7.97.23
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ।। ७.९७.२३ ॥
Vālmīki 7.97.24
यज्ञवाटगताश्चापि मुनयः सर्व एव ते ।राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ।। ७.९७.२४ ॥
Vālmīki 7.97.25
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।दानवाश्च महाकायाः पाताले पन्नगाधिपाः ।। ७.९७.२५ ॥
Vālmīki 7.97.26
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ।। ७.९७.२६ ॥
Vālmīki 7.97.27
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ।तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ।। ७.९७.२७ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷