🪷 उत्तरकाण्ड · Sarga 96
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 96 · 24 ślokas
🪷 Devanāgarī Ślokas
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥७-९६-१॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥७-९६-२॥
पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः ।मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ॥७-९६-३॥
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ।भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥७-९६-४॥
नारदः पर्वतश्चैव गौतमश्च महायशाः ।कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ॥७-९६-५॥
एते चान्ये च बहवो मुनयः संशितव्रताः ।कौतूहलसमाविष्टाः सर्व एव समागताः ॥७-९६-६॥
राक्षसाश्च महावीर्या वानराश्च महाबलाः ।सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥७-९६-७॥
क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ।नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥७-९६-८॥
ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे ।सीताशपथवीक्षार्थं सर्व एव समागताः ॥७-९६-९॥
तदा समागतं सर्वमश्मभूतमिवाचलम् ।श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥७-९६-१०॥
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥७-९६-११॥
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥७-९६-१२॥
ततो हलहलाशब्दः सर्वेषामेवमाबभौ ।दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥७-९६-१३॥
साधु रामेति केचित्तु साधु सीतेति चापरे ।उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ॥७-९६-१४॥
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ।सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥७-९६-१५॥
इयं दाशरथे सीता सुव्रता धर्मचारिणी ।अपवादैः परित्यक्ता ममाश्रमसमीपतः ॥७-९६-१६॥
लोकापवादभीतस्य तव राम महाव्रत ।प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥७-९६-१७॥
इमौ तु जानकीपुत्रावुभौ च यमजातकौ ।सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥७-९६-१८॥
प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन ।न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥७-९६-१९॥
बहुवर्षसहस्राणि तपश्चर्या मया कृता ।नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥७-९६-२०॥
मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् ।तस्याः फलमुपाश्नीयामपापा मैथिली यदि ॥७-९६-२१॥
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव ।विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥७-९६-२२॥
इयं शुद्धसमाचारा अपापा पतिदेवता ।लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥७-९६-२३॥
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा ।लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ॥७-९६-२४॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 95
- Next: Uttara-Kāṇḍa Sarga 97 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷