🪷 उत्तरकाण्ड · Sarga 95
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 95 · 16 ślokas
🪷 Devanāgarī Ślokas
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥७-९५-१॥
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ॥७-९५-२॥
मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।। ७.९५.३ ।।परिषदो मध्ये रामो वचनमब्रवीत् ।यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥७-९५-३॥
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥७-९५-४॥
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥७-९५-५॥
श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् ।दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ॥७-९५-६॥
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥७-९५-७॥
तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥७-९५-८॥
एवं भवतु भद्रं वो यथा वदति राघवः ।तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥७-९५-९॥
तथोक्ता मुनिना सर्वे राजदूता महौजसम् ।प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥७-९५-१०॥
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥७-९५-११॥
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ॥७-९५-१२॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥७-९५-१३॥
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥७-९५-१४॥
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥७-९५-१५॥
इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै ।विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥७-९५-१६॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 94
- Next: Uttara-Kāṇḍa Sarga 96 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷