🪷 उत्तरकाण्ड · Sarga 94

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 94 · 32 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.94.1
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥७-९४-१॥
Vālmīki 7.94.2
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् ।अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ॥७-९४-२॥
Vālmīki 7.94.3
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ।बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ॥७-९४-३॥
Vālmīki 7.94.4
अथ कर्मान्तरे राजा समाहूय महामुनीन् ।पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥७-९४-४॥
Vālmīki 7.94.5
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः ।स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ॥७-९४-५॥
Vālmīki 7.94.6
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः ।पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ॥७-९४-६॥
Vālmīki 7.94.7
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् ।क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ॥७-९४-७॥
Vālmīki 7.94.8
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।हेतूपचारकुशलान् वचने चापि हैतुकान् ॥७-९४-८॥
Vālmīki 7.94.9
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥७-९४-९॥
Vālmīki 7.94.10
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् ।एतान्सर्वान्समानीय गातारौ समवेशयत् ॥७-९४-१०॥
Vālmīki 7.94.11
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः ।पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ॥७-९४-११॥
Vālmīki 7.94.12
ऊचुः परस्परं चेदं सर्व एव समन्ततः ।उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ॥७-९४-१२॥
Vālmīki 7.94.13
जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।विशेषं नाधिगच्छामो गायतो राघवस्य च ॥७-९४-१३॥
Vālmīki 7.94.14
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् ।गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥७-९४-१४॥
Vālmīki 7.94.15
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ॥७-९४-१५॥
Vālmīki 7.94.16
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ।ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥७-९४-१६॥
Vālmīki 7.94.17
ततो ऽपराह्णसमये राघवः समभाषत ।श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ॥७-९४-१७॥
Vālmīki 7.94.18
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ।प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ।ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ॥७-९४-१८॥
Vālmīki 7.94.19
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ ।ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥७-९४-१९॥
Vālmīki 7.94.20
वन्येन फलमूलेन निरतौ वनवासिनौ ।सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥७-९४-२०॥
Vālmīki 7.94.21
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः ।श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ॥७-९४-२१॥
Vālmīki 7.94.22
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥७-९४-२२॥
Vālmīki 7.94.23
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ॥७-९४-२३॥
Vālmīki 7.94.24
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥७-९४-२४॥
Vālmīki 7.94.25
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् ।येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ॥७-९४-२५॥
Vālmīki 7.94.26
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् ।उपाख्यानशतं चैव भार्गवेण तपस्विना ॥७-९४-२६॥
Vālmīki 7.94.27
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च ।काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।कृतानि गुरुणास्माकमृषिणा चरितं तव ॥७-९४-२७॥
Vālmīki 7.94.28
प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥७-९४-२८॥
Vālmīki 7.94.29
सोत्तराणि महात्मना ।यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ ।कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥७-९४-२९॥
Vālmīki 7.94.30
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥७-९४-३०॥
Vālmīki 7.94.31
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ॥७-९४-३१॥
Vālmīki 7.94.32
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् ।तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥७-९४-३२॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷