🪷 उत्तरकाण्ड · Sarga 98

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 98 · 27 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.98.1
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः ।चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ॥७-९८-१॥
Vālmīki 7.98.2
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः ।अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ॥७-९८-२॥
Vālmīki 7.98.3
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् ।क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ॥७-९८-३॥
Vālmīki 7.98.4
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति ।पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ॥७-९८-४॥
Vālmīki 7.98.5
सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः ।ततश्चापि मयानीता किं पुनर्वसुधातलात् ॥७-९८-५॥
Vālmīki 7.98.6
वसुधे देवि भवति सीता निर्यात्यतां मम ।दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ॥७-९८-६॥
Vālmīki 7.98.7
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली ।कर्षता हलहस्तेन जनकेनोद्धृता पुरा ॥७-९८-७॥
Vālmīki 7.98.8
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे ।पाताले नाकपृष्ठे वा वसेयं सहितस्तया ॥७-९८-८॥
Vālmīki 7.98.9
आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते ।न मे दास्यसि चेत्सीतां यथारूपां महीतले ॥७-९८-९॥
Vālmīki 7.98.10
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् ।नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ॥७-९८-१०॥
Vālmīki 7.98.11
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते ।ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ॥७-९८-११॥
Vālmīki 7.98.12
राम राम न सन्तापं कर्तुमर्हसि सुव्रत ।स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ॥७-९८-१२॥
Vālmīki 7.98.13
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् ।इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ॥७-९८-१३॥
Vālmīki 7.98.14
सीता हि विमला साध्वी तव पूर्वपरायणा ।नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ॥७-९८-१४॥
Vālmīki 7.98.15
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः ।अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ॥७-९८-१५॥
Vālmīki 7.98.16
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ।सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ॥७-९८-१६॥
Vālmīki 7.98.17
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् ।भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ॥७-९८-१७॥
Vālmīki 7.98.18
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् ।नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ॥७-९८-१८॥
Vālmīki 7.98.19
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह ।दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ॥७-९८-१९॥
Vālmīki 7.98.20
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः ।शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ॥७-९८-२०॥
Vālmīki 7.98.21
उत्तरं नाम काव्यस्य शेषमत्र महायशः ।तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥७-९८-२१॥
Vālmīki 7.98.22
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् ।परमम् ऋषिणा वीर त्वयैव रघुनन्दन ॥७-९८-२२॥
Vālmīki 7.98.23
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः ।जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ॥७-९८-२३॥
Vālmīki 7.98.24
ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ।ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ।उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ॥७-९८-२४॥
Vālmīki 7.98.25
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् ।श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ॥७-९८-२५॥
Vālmīki 7.98.26
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः ।भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ॥७-९८-२६॥
Vālmīki 7.98.27
एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ ।तं जनौघं विसृज्याथ पर्णशालामुपागमत् ।तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥७-९८-२७॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷