🪷 उत्तरकाण्ड · Sarga 91
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 91 · 26 ślokas
🪷 Devanāgarī Ślokas
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥७-९१-१॥
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ।द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥७-९१-२॥
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण ।हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ॥७-९१-३॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ॥७-९१-४॥
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥७-९१-५॥
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ॥७-९१-६॥
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥७-९१-७॥
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ॥७-९१-८॥
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् ।प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ॥७-९१-९॥
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ॥७-९१-१०॥
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥७-९१-११॥
राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥७-९१-१२॥
देशान्तरगता ये च द्विजा धर्मसमाहिताः ।आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ॥७-९१-१३॥
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।तथैव तालावचरास्तथैव नटनर्तकाः ॥७-९१-१४॥
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने ।आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥७-९१-१५॥
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ॥७-९१-१६॥
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।अनुभूय महायज्ञं नैमिशे रघुनन्दन ॥७-९१-१७॥
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि ।प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥७-९१-१८॥
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ॥७-९१-१९॥
चणकानां कुलित्थानां माषाणां लवणस्य च ।अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ॥७-९१-२०॥
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥७-९१-२१॥
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥७-९१-२२॥
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ॥७-९१-२३॥
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ॥७-९१-२४॥
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥७-९१-२५॥
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥७-९१-२६॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 90
- Next: Uttara-Kāṇḍa Sarga 92 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷