🪷 उत्तरकाण्ड · Sarga 92
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 92 · 19 ślokas
🪷 Devanāgarī Ślokas
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ॥७-९२-१॥
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ॥७-९२-२॥
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ॥७-९२-३॥
नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ॥७-९२-४॥
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥७-९२-५॥
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ॥७-९२-६॥
वानराश्च महात्मानः सुग्रीवसहितास्तदा ।विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥७-९२-७॥
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥७-९२-८॥
एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत ।लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत ।ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ॥७-९२-९॥
नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः ।छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ॥७-९२-१०॥
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः ।विविधानि च गौडानि खाण्डवानि तथैव च ॥७-९२-११॥
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् ।तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥७-९२-१२॥
न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः ।तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥७-९२-१३॥
ये च तत्र महात्मानो मुनयश्चिरजीविनः ।नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ॥७-९२-१४॥
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः ।वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥७-९२-१५॥
रजतानां सुवर्णानामश्मनामथ वाससाम् ।अनिशं दीयमानानां राशिः समुपदृश्यते ॥७-९२-१६॥
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥७-९२-१७॥
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥७-९२-१८॥
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।संवत्सरमथो साग्रं वर्तते न च हीयते ॥७-९२-१९॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 91
- Next: Uttara-Kāṇḍa Sarga 93 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷