🪷 उत्तरकाण्ड · Sarga 90

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 90 · 24 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.90.1
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥७-९०-१॥
Vālmīki 7.90.2
इला सा सोमपुत्रस्य संवत्सरमथोषिता ।अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥७-९०-२॥
Vālmīki 7.90.3
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥७-९०-३॥
Vālmīki 7.90.4
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।संवर्तं परमोदारमाजुहाव महायशाः ॥७-९०-४॥
Vālmīki 7.90.5
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥७-९०-५॥
Vālmīki 7.90.6
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः ।उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥७-९०-६॥
Vālmīki 7.90.7
अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥७-९०-७॥
Vālmīki 7.90.8
तेषां संवदतामेव तमाश्रममुपागमत् ।कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥७-९०-८॥
Vālmīki 7.90.9
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ॥७-९०-९॥
Vālmīki 7.90.10
ते सर्वे हृष्टमनसः परस्परसमागमे ।हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥७-९०-१०॥
Vālmīki 7.90.11
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥७-९०-११॥
Vālmīki 7.90.12
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ।तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ॥७-९०-१२॥
Vālmīki 7.90.13
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥७-९०-१३॥
Vālmīki 7.90.14
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः ।मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥७-९०-१४॥
Vālmīki 7.90.15
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।रुद्रश्च परमं तोषमाजगाम महायशाः ॥७-९०-१५॥
Vālmīki 7.90.16
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ।उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ॥७-९०-१६॥
Vālmīki 7.90.17
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ॥७-९०-१७॥
Vālmīki 7.90.18
तथा वदति देवेशे द्विजास्ते सुसमाहिताः ।प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥७-९०-१८॥
Vālmīki 7.90.19
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ।इलायै सुमहातेजा दत्त्वा चान्तरधीयत ॥७-९०-१९॥
Vālmīki 7.90.20
निवृत्ते हयमेधे च गतश्चादर्शनं हरः ।यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ॥७-९०-२०॥
Vālmīki 7.90.21
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥७-९०-२१॥
Vālmīki 7.90.22
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः ।प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥७-९०-२२॥
Vālmīki 7.90.23
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् ।ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥७-९०-२३॥
Vālmīki 7.90.24
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥७-९०-२४॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷