🪷 उत्तरकाण्ड · Sarga 89

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 89 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.89.1
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥७-८९-१॥
Vālmīki 7.89.2
अथ रामः कथामेतां भूय एव महायशाः ।कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥७-८९-२॥
Vālmīki 7.89.3
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः ।उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ॥७-८९-३॥
Vālmīki 7.89.4
सोमस्याहं सुदयितः सुतः सुरुचिरानने ।भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥७-८९-४॥
Vālmīki 7.89.5
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते ।इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥७-८९-५॥
Vālmīki 7.89.6
अहं कामचरी सौम्य तवास्मि वशवर्तिनी ।प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥७-८९-६॥
Vālmīki 7.89.7
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ।स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥७-८९-७॥
Vālmīki 7.89.8
बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ॥७-८९-८॥
Vālmīki 7.89.9
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः ।प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ॥७-८९-९॥
Vālmīki 7.89.10
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये ।ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥७-८९-१०॥
Vālmīki 7.89.11
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः ।न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥७-८९-११॥
Vālmīki 7.89.12
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् ।प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥७-८९-१२॥
Vālmīki 7.89.13
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥७-८९-१३॥
Vālmīki 7.89.14
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ।फलमूलाशनो वीर निवसेह यथासुखम् ॥७-८९-१४॥
Vālmīki 7.89.15
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ।प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ॥७-८९-१५॥
Vālmīki 7.89.16
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ।वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥७-८९-१६॥
Vālmīki 7.89.17
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥७-८९-१७॥
Vālmīki 7.89.18
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् ।प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ॥७-८९-१८॥
Vālmīki 7.89.19
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥७-८९-१९॥
Vālmīki 7.89.20
न सन्तापस्त्वया कार्यः कार्दमेय महाबल ।संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥७-८९-२०॥
Vālmīki 7.89.21
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥७-८९-२१॥
Vālmīki 7.89.22
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा ।मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥७-८९-२२॥
Vālmīki 7.89.23
ततः सा नवमे मासि इला सोमसुतात्सुतम् ।जनयामास सुश्रोणी पुरूरवसमूर्जितम् ॥७-८९-२३॥
Vālmīki 7.89.24
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् ।बुधस्य समवर्णभमिला पुत्रं महाबलम् ॥७-८९-२४॥
Vālmīki 7.89.25
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् ।कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥७-८९-२५॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷