🪷 उत्तरकाण्ड · Sarga 88

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 88 · 24 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.88.1
तां कथामिलसम्बद्धां रामेण समुदीरिताम् ।लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥७-८८-१॥
Vālmīki 7.88.2
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥७-८८-२॥
Vālmīki 7.88.3
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥७-८८-३॥
Vālmīki 7.88.4
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥७-८८-४॥
Vālmīki 7.88.5
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥७-८८-५॥
Vālmīki 7.88.6
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी ।द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥७-८८-६॥
Vālmīki 7.88.7
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥७-८८-७॥
Vālmīki 7.88.8
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥७-८८-८॥
Vālmīki 7.88.9
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा ।ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥७-८८-९॥
Vālmīki 7.88.10
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ॥७-८८-१०॥
Vālmīki 7.88.11
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥७-८८-११॥
Vālmīki 7.88.12
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ॥७-८८-१२॥
Vālmīki 7.88.13
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ॥७-८८-१३॥
Vālmīki 7.88.14
न देवीषु न नागीषु नासुरीष्वप्सरःसु च ।दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥७-८८-१४॥
Vālmīki 7.88.15
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥७-८८-१५॥
Vālmīki 7.88.16
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥७-८८-१६॥
Vālmīki 7.88.17
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥७-८८-१७॥
Vālmīki 7.88.18
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥७-८८-१८॥
Vālmīki 7.88.19
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥७-८८-१९॥
Vālmīki 7.88.20
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥७-८८-२०॥
Vālmīki 7.88.21
सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥७-८८-२१॥
Vālmīki 7.88.22
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ ।आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ॥७-८८-२२॥
Vālmīki 7.88.23
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ॥७-८८-२३॥
Vālmīki 7.88.24
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः ।उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥७-८८-२४॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷