🪷 उत्तरकाण्ड · Sarga 87

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 87 · 29 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.87.1
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥७-८७-१॥
Vālmīki 7.87.2
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण ।वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥७-८७-२॥
Vālmīki 7.87.3
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ॥७-८७-३॥
Vālmīki 7.87.4
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः ।राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥७-८७-४॥
Vālmīki 7.87.5
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ॥७-८७-५॥
Vālmīki 7.87.6
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ।अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥७-८७-६॥
Vālmīki 7.87.7
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ॥७-८७-७॥
Vālmīki 7.87.8
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥७-८७-८॥
Vālmīki 7.87.9
प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः ।हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥७-८७-९॥
Vālmīki 7.87.10
नानामृगाणामयुतं वध्यमानं महात्मना ।यत्र जातो माहासेनस्तं देशमुपचक्रमे ॥७-८७-१०॥
Vālmīki 7.87.11
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः ।रमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥७-८७-११॥
Vālmīki 7.87.12
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः ।देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥७-८७-१२॥
Vālmīki 7.87.13
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ॥७-८७-१३॥
Vālmīki 7.87.14
यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह ।एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥७-८७-१४॥
Vālmīki 7.87.15
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् ।आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥७-८७-१५॥
Vālmīki 7.87.16
तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् ।उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥७-८७-१६॥
Vālmīki 7.87.17
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।जगाम शरणं राजा सभृत्यबलवाहनः ॥७-८७-१७॥
Vālmīki 7.87.18
ततः प्रहस्य वरदः सह देव्या महेश्वरः ।प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥७-८७-१८॥
Vālmīki 7.87.19
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥७-८७-१९॥
Vālmīki 7.87.20
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना ।न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥७-८७-२०॥
Vālmīki 7.87.21
ततः शोकेन महता शैलराजसुतां नृपः ।प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ॥७-८७-२१॥
Vālmīki 7.87.22
ईशे वराणां वरदे लोकानामसि भामिनी ।अमोघदर्शने देवी भज सौम्येन चक्षुषा ॥७-८७-२२॥
Vālmīki 7.87.23
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥७-८७-२३॥
Vālmīki 7.87.24
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ।तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥७-८७-२४॥
Vālmīki 7.87.25
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥७-८७-२५॥
Vālmīki 7.87.26
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥७-८७-२६॥
Vālmīki 7.87.27
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥७-८७-२७॥
Vālmīki 7.87.28
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥७-८७-२८॥
Vālmīki 7.87.29
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः ।त्रैलोक्यसुन्दरी नारी मासमेकमिला ऽभवत् ॥७-८७-२९॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷