🪷 उत्तरकाण्ड · Sarga 86

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 86 · 21 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.86.1
तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥७-८६-१॥
Vālmīki 7.86.2
ततो हते महावीर्ये वृत्रे देवभयङ्करे ।ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ॥७-८६-२॥
Vālmīki 7.86.3
सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः ।कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ॥७-८६-३॥
Vālmīki 7.86.4
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ॥७-८६-४॥
Vālmīki 7.86.5
निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा ।सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ॥७-८६-५॥
Vālmīki 7.86.6
क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः ।यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥७-८६-६॥
Vālmīki 7.86.7
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥७-८६-७॥
Vālmīki 7.86.8
ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया ।तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥७-८६-८॥
Vālmīki 7.86.9
ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ॥७-८६-९॥
Vālmīki 7.86.10
ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः ।अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥७-८६-१०॥
Vālmīki 7.86.11
ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ।चतुर्धा विभजात्मानमात्मनैव दुरासदे ॥७-८६-११॥
Vālmīki 7.86.12
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥७-८६-१२॥
Vālmīki 7.86.13
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥७-८६-१३॥
Vālmīki 7.86.14
भूम्यामहं सर्वकालमेकेनांशेन सर्वदा ।वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥७-८६-१४॥
Vālmīki 7.86.15
यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ॥७-८६-१५॥
Vālmīki 7.86.16
हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् ।तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥७-८६-१६॥
Vālmīki 7.86.17
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥७-८६-१७॥
Vālmīki 7.86.18
ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे ।विज्वरः स च पूतात्मा वासवः समपद्यत ॥७-८६-१८॥
Vālmīki 7.86.19
प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते ।यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ॥७-८६-१९॥
Vālmīki 7.86.20
ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन ।यजस्व सुमहाभाग हयमेधेन पार्थिव ॥७-८६-२०॥
Vālmīki 7.86.21
इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा ।परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥७-८६-२१॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷