🪷 उत्तरकाण्ड · Sarga 85
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 85 · 22 ślokas
🪷 Devanāgarī Ślokas
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥७-८५-१॥
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।भूय एव कथां दिव्यां कथयामास सुव्रतः ॥७-८५-२॥
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥७-८५-३॥
पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य ह महात्मनः ।तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥७-८५-४॥
अवश्यं करणीयं च भवतां सुखमुत्तमम् ।तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥७-८५-५॥
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः ।तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥७-८५-६॥
एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥७-८५-७॥
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥७-८५-८॥
भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।भजस्व परमोदार वासवं स्वेन तेजसा ॥७-८५-९॥
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥७-८५-१०॥
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥७-८५-११॥
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥७-८५-१२॥
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥७-८५-१३॥
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा ।पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् ॥७-८५-१४॥
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥७-८५-१५॥
तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति ।अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥७-८५-१६॥
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ।विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥७-८५-१७॥
त्वं गतिः परमेशान पूर्वजो जगतः पिता ।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥७-८५-१८॥
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥७-८५-१९॥
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥७-८५-२०॥
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥७-८५-२१॥
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् ।जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥७-८५-२२॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 84
- Next: Uttara-Kāṇḍa Sarga 86 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷