🪷 उत्तरकाण्ड · Sarga 84

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 84 · 18 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.84.1
तथोक्तवति रामे तु भरते च महात्मनि ।लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ॥७-८४-१॥
Vālmīki 7.84.2
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥७-८४-२॥
Vālmīki 7.84.3
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥७-८४-३॥
Vālmīki 7.84.4
पुरा किल महाबाहो देवासुरसमागमे ।वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ॥७-८४-४॥
Vālmīki 7.84.5
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥७-८४-५॥
Vālmīki 7.84.6
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥७-८४-६॥
Vālmīki 7.84.7
तस्मिन्प्रशासति तदा सर्वकामदुघा मही ।रसवन्ति प्रभूनानि मूलानि च फलानि च ॥७-८४-७॥
Vālmīki 7.84.8
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः ।स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥७-८४-८॥
Vālmīki 7.84.9
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् ।तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ॥७-८४-९॥
Vālmīki 7.84.10
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥७-८४-१०॥
Vālmīki 7.84.11
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ॥७-८४-११॥
Vālmīki 7.84.12
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः ।बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ॥७-८४-१२॥
Vālmīki 7.84.13
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर ।यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥७-८४-१३॥
Vālmīki 7.84.14
तं चैनं परमोदारमुपेक्षसि महाबलम् ।क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥७-८४-१४॥
Vālmīki 7.84.15
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥७-८४-१५॥
Vālmīki 7.84.16
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ॥७-८४-१६॥
Vālmīki 7.84.17
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ॥७-८४-१७॥
Vālmīki 7.84.18
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥७-८४-१८॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷