🪷 उत्तरकाण्ड · Sarga 83
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 83 · 20 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः ।द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ।। ७.८३.१ ॥
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ।परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ।। ७.८३.२ ॥
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ।। ७.८३.३ ॥
अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ।। ७.८३.४ ॥
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ।। ७.८३.५ ॥
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ।। ७.८३.६ ॥
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ।। ७.८३.७ ॥
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ।। ७.८३.८ ॥
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ।भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.८३.९ ॥
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा ।प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ।। ७.८३.१० ॥
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ।। ७.८३.११ ॥
पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ।। ७.८३.१२ ॥
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ।। ७.८३.१३ ॥
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ।सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ।। ७.८३.१४ ॥
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ।। ७.८३.१५ ॥
भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ।। ७.८३.१६ ॥
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ।। ७.८३.१७ ॥
इदं वचनमक्लीबं त्वया धर्मसमाहितम् ।व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ।। ७.८३.१८ ॥
एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् ।निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ।। ७.८३.१९ ॥
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज ।तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ।। ७.८३.२० ।।
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 82
- Next: Uttara-Kāṇḍa Sarga 84 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷