🪷 उत्तरकाण्ड · Sarga 82

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 82 · 20 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.82.1
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ॥७-८२-१॥
Vālmīki 7.82.2
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥७-८२-२॥
Vālmīki 7.82.3
तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् ।शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥७-८२-३॥
Vālmīki 7.82.4
स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ।प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥७-८२-४॥
Vālmīki 7.82.5
प्रभाते काल्यमुत्थाय कृत्वा ऽ ऽह्निकमरिन्दमः ।ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥७-८२-५॥
Vālmīki 7.82.6
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् ।आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥७-८२-६॥
Vālmīki 7.82.7
धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः ।द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥७-८२-७॥
Vālmīki 7.82.8
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥७-८२-८॥
Vālmīki 7.82.9
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥७-८२-९॥
Vālmīki 7.82.10
मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ।पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ॥७-८२-१०॥
Vālmīki 7.82.11
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥७-८२-११॥
Vālmīki 7.82.12
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव ॥७-८२-१२॥
Vālmīki 7.82.13
गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् ।प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥७-८२-१३॥
Vālmīki 7.82.14
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ॥७-८२-१४॥
Vālmīki 7.82.15
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥७-८२-१५॥
Vālmīki 7.82.16
तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः ।अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥७-८२-१६॥
Vālmīki 7.82.17
स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ।शशी मेघसमीपस्थो यथा जलधरागमे ॥७-८२-१७॥
Vālmīki 7.82.18
ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ॥७-८२-१८॥
Vālmīki 7.82.19
ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ।विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति च प्रभुः ॥७-८२-१९॥
Vālmīki 7.82.20
कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः ।लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।ममागमनमाख्याय शब्दापयत मा चिरम् ॥७-८२-२०॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷