🪷 उत्तरकाण्ड · Sarga 81

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 81 · 22 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.81.1
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥७-८१-१॥
Vālmīki 7.81.2
सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ॥७-८१-२॥
Vālmīki 7.81.3
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ॥७-८१-३॥
Vālmīki 7.81.4
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ॥७-८१-४॥
Vālmīki 7.81.5
क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥७-८१-५॥
Vālmīki 7.81.6
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥७-८१-६॥
Vālmīki 7.81.7
सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥७-८१-७॥
Vālmīki 7.81.8
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥७-८१-८॥
Vālmīki 7.81.9
सर्वसत्वानि यानीह स्थावराणि चराणि च ।महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ॥७-८१-९॥
Vālmīki 7.81.10
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥७-८१-१०॥
Vālmīki 7.81.11
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥७-८१-११॥
Vālmīki 7.81.12
श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः ।निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ॥७-८१-१२॥
Vālmīki 7.81.13
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥७-८१-१३॥
Vālmīki 7.81.14
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥७-८१-१४॥
Vālmīki 7.81.15
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥७-८१-१५॥
Vālmīki 7.81.16
श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा ।तथेति पितरं प्राह भार्गवं भृशदुःखिता ।इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥७-८१-१६॥
Vālmīki 7.81.17
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥७-८१-१७॥
Vālmīki 7.81.18
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥७-८१-१८॥
Vālmīki 7.81.19
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ॥७-८१-१९॥
Vālmīki 7.81.20
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥७-८१-२०॥
Vālmīki 7.81.21
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥७-८१-२१॥
Vālmīki 7.81.22
स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥७-८१-२२॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷