🪷 उत्तरकाण्ड · Sarga 80
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 80 · 18 ślokas
🪷 Devanāgarī Ślokas
एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥७-८०-१॥
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥७-८०-२॥
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥७-८०-३॥
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ॥७-८०-४॥
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥७-८०-५॥
कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे ।पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ॥७-८०-६॥
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥७-८०-७॥
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥७-८०-८॥
मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ।गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥७-८०-९॥
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ।वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ॥७-८०-१०॥
अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ॥७-८०-११॥
दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥७-८०-१२॥
एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥७-८०-१३॥
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥७-८०-१४॥
त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥७-८०-१५॥
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ।विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥७-८०-१६॥
एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥७-८०-१७॥
अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः ।प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ॥७-८०-१८॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 79
- Next: Uttara-Kāṇḍa Sarga 81 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷