🪷 उत्तरकाण्ड · Sarga 79

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 79 · 20 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.79.1
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥७-७९-१॥
Vālmīki 7.79.2
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥७-७९-२॥
Vālmīki 7.79.3
तद्वनं स कथ राजा शून्यं मनुजवर्जितम् ।तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥७-७९-३॥
Vālmīki 7.79.4
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥७-७९-४॥
Vālmīki 7.79.5
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥७-७९-५॥
Vālmīki 7.79.6
तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् ।पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥७-७९-६॥
Vālmīki 7.79.7
तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव ।ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ॥७-७९-७॥
Vālmīki 7.79.8
प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः ।दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥७-७९-८॥
Vālmīki 7.79.9
अपराधिषु यो दण्डः पात्यते मानवेषु वै ।स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥७-७९-९॥
Vālmīki 7.79.10
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥७-७९-१०॥
Vālmīki 7.79.11
इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना ।जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥७-७९-११॥
Vālmīki 7.79.12
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ॥७-७९-१२॥
Vālmīki 7.79.13
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् ।जनयामास धर्मात्मा शतं देवसुतोपमान् ॥७-७९-१३॥
Vālmīki 7.79.14
तेषामवरजस्तात सर्वेषां रघुनन्दन ।मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥७-७९-१४॥
Vālmīki 7.79.15
नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः ।अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ॥७-७९-१५॥
Vālmīki 7.79.16
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥७-७९-१६॥
Vālmīki 7.79.17
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥७-७९-१७॥
Vālmīki 7.79.18
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।पुरोहितं तूशनसं वरयामास सुव्रतम् ॥७-७९-१८॥
Vālmīki 7.79.19
एवं स राजा तद्राज्यमकरोत्सपुरोहितः ।प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ॥७-७९-१९॥
Vālmīki 7.79.20
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् ।चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ॥७-७९-२०॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷