🪷 उत्तरकाण्ड · Sarga 78

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 78 · 30 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.78.1
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥७-७८-१॥
Vālmīki 7.78.2
शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ।अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥७-७८-२॥
Vālmīki 7.78.3
पुरा वैदर्भको राजा पिता मम महायशाः ।सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥७-७८-३॥
Vālmīki 7.78.4
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ॥७-७८-४॥
Vālmīki 7.78.5
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ॥७-७८-५॥
Vālmīki 7.78.6
एवं वर्षसहस्राणि समतीतानि सुव्रत ।राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥७-७८-६॥
Vālmīki 7.78.7
सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥७-७८-७॥
Vālmīki 7.78.8
सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ॥७-७८-८॥
Vālmīki 7.78.9
भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् ।इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥७-७८-९॥
Vālmīki 7.78.10
सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥७-७८-१०॥
Vālmīki 7.78.11
तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः ।गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ॥७-७८-११॥
Vālmīki 7.78.12
भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः ।कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ॥७-७८-१२॥
Vālmīki 7.78.13
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥७-७८-१३॥
Vālmīki 7.78.14
पितामहस्तु मामाह तवाहारः सुदेवज ।स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥७-७८-१४॥
Vālmīki 7.78.15
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥७-७८-१५॥
Vālmīki 7.78.16
तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते ।पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ।न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ॥७-७८-१६॥
Vālmīki 7.78.17
दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे ।तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥७-७८-१७॥
Vālmīki 7.78.18
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ॥७-७८-१८॥
Vālmīki 7.78.19
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ।आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ॥७-७८-१९॥
Vālmīki 7.78.20
स हि तारयितुं सौम्य शक्तः सुरगणानपि ।किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥७-७८-२०॥
Vālmīki 7.78.21
सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।आहारं गर्हितं स्वशरीरं द्विजोत्तम ॥७-७८-२१॥
Vālmīki 7.78.22
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥७-७८-२२॥
Vālmīki 7.78.23
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय ।अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥७-७८-२३॥
Vālmīki 7.78.24
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥७-७८-२४॥
Vālmīki 7.78.25
इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज ।भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥७-७८-२५॥
Vālmīki 7.78.26
सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव ।तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥७-७८-२६॥
Vālmīki 7.78.27
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।तारणायोपजग्राह तदाभरणमुत्तमम् ॥७-७८-२७॥
Vālmīki 7.78.28
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।मानुषः पूर्वको देहो राजर्षेर्विननाश ह ॥७-७८-२८॥
Vālmīki 7.78.29
प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा ।तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥७-७८-२९॥
Vālmīki 7.78.30
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥७-७८-३०॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷