🪷 उत्तरकाण्ड · Sarga 77

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 77 · 22 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.77.1
पुरा त्रेतायुगे राम बभूव बहुविस्तरम् ।समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ॥७-७७-१॥
Vālmīki 7.77.2
तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् ।अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥७-७७-२॥
Vālmīki 7.77.3
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ।फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥७-७७-३॥
Vālmīki 7.77.4
तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥७-७७-४॥
Vālmīki 7.77.5
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ।तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥७-७७-५॥
Vālmīki 7.77.6
अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् ।समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥७-७७-६॥
Vālmīki 7.77.7
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् ।तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥७-७७-७॥
Vālmīki 7.77.8
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे ।अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ॥७-७७-८॥
Vālmīki 7.77.9
पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् ।तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥७-७७-९॥
Vālmīki 7.77.10
तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव ।उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ॥७-७७-१०॥
Vālmīki 7.77.11
अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् ।विमानं परमोदारं हंसयुक्तं मनोजवम् ॥७-७७-११॥
Vālmīki 7.77.12
अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन ।उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ॥७-७७-१२॥
Vālmīki 7.77.13
गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः ।क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ॥७-७७-१३॥
Vālmīki 7.77.14
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः ।दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥७-७७-१४॥
Vālmīki 7.77.15
ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् ।पश्यतो मे तदा राम विमानादवरुह्य च ।तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥७-७७-१५॥
Vālmīki 7.77.16
तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् ।अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥७-७७-१६॥
Vālmīki 7.77.17
उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव ।आरोढुमुपचक्राम विमानवरमुत्तमम् ॥७-७७-१७॥
Vālmīki 7.77.18
तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै ।अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥७-७७-१८॥
Vālmīki 7.77.19
को भवान्देवसङ्काश आहारश्च विगर्हितः ।त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥७-७७-१९॥
Vālmīki 7.77.20
कस्य स्यादीदृशो भाव आहारो देवसम्मतः ।आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥७-७७-२०॥
Vālmīki 7.77.21
नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ॥७-७७-२१॥
Vālmīki 7.77.22
इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च ।श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ॥७-७७-२२॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷