🪷 उत्तरकाण्ड · Sarga 76

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 76 · 52 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 7.76local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.76.1
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ।। ७.७६.१ ॥
Vālmīki 7.76.2
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः ।देवत्वं पार्थये राम सशरीरो महायशः ।। ७.७६.२ ॥
Vālmīki 7.76.3
न मिथ्या ऽहं वदे राम देवलोकजिगीषया ।शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ।। ७.७६.३ ॥
Vālmīki 7.76.4
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ।। ७.७६.४ ॥
Vālmīki 7.76.5
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ।। ७.७६.५ ॥
Vālmīki 7.76.6
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् ।पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। ७.७६.६ ॥
Vālmīki 7.76.7
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् ।सुरकार्यमिदं सौम्य सुकृतं ते महामते ।। ७.७६.७ ॥
Vālmīki 7.76.8
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ।। ७.७६.८ ॥
Vālmīki 7.76.9
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः ।उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ।। ७.७६.९ ॥
Vālmīki 7.76.10
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।दिशन्तु वरमेतं मे इप्सितं परमं मम ।। ७.७६.१० ॥
Vālmīki 7.76.11
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः ।अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ।। ७.७६.११ ॥
Vālmīki 7.76.12
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ ।द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ।। ७.७६.१२ ॥
Vālmīki 7.76.13
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ।प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ।। ७.७६.१३ ॥
Vālmīki 7.76.14
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः ।जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ।। ७.७६.१४ ॥
Vālmīki 7.76.15
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः ।तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ।। ७.७६.१५ ॥
Vālmīki 7.76.16
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ।। ७.७६.१६ ॥
Vālmīki 7.76.17
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।द्वादशं हि गतं वर्षं जलशय्यां समासतः ।। ७.७६.१७ ॥
Vālmīki 7.76.18
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् ।त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ।। ७.७६.१८ ॥
Vālmīki 7.76.19
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। ७.७६.१९ ॥
Vālmīki 7.76.20
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ।। ७.७६.२० ॥
Vālmīki 7.76.21
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः ।अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ।। ७.७६.२१ ॥
Vālmīki 7.76.22
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ।। ७.७६.२२ ॥
Vālmīki 7.76.23
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ।। ७.७६.२३ ॥
Vālmīki 7.76.24
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।आतिथ्यं परमं प्राप्य निषसाद नराधिपः ।। ७.७६.२४ ॥
Vālmīki 7.76.25
तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।। ७.७६.२५ ॥
Vālmīki 7.76.26
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ।। ७.७६.२६ ॥
Vālmīki 7.76.27
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ।। ७.७६.२७ ॥
Vālmīki 7.76.28
उष्यतां चेह रजनी सकाशे मम राघव ।प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ।। ७.७६.२८ ॥
Vālmīki 7.76.29
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ।। ७.७६.२९ ॥
Vālmīki 7.76.30
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ।। ७.७६.३० ॥
Vālmīki 7.76.31
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ।भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ।। ७.७६.३१ ॥
Vālmīki 7.76.32
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।। ७.७६.३२ ॥
Vālmīki 7.76.33
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।। ७.७६.३३ ॥
Vālmīki 7.76.34
अथोवाच महात्मानमिक्ष्वाकूणां महारथः ।रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।। ७.७६.३४ ॥
Vālmīki 7.76.35
प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः ।गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ।। ७.७६.३५ ॥
Vālmīki 7.76.36
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ।एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ।। ७.७६.३६ ॥
Vālmīki 7.76.37
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे ।अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ।। ७.७६.३७ ॥
Vālmīki 7.76.38
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।। ७.७६.३८ ॥
Vālmīki 7.76.39
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ।यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।न वसामो विना राज्ञा एष नो निश्चयः परः ।। ७.७६.३९ ॥
Vālmīki 7.76.40
प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ।। ७.७६.४० ॥
Vālmīki 7.76.41
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् ।समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ।। ७.७६.४१ ॥
Vālmīki 7.76.42
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः ।अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।। ७.७६.४२ ॥
Vālmīki 7.76.43
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् ।ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।। ७.७६.४३ ॥
Vālmīki 7.76.44
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ।वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।। ७.७६.४४ ॥
Vālmīki 7.76.45
कौबेरेण तु भागेन वित्तमासां ददौ तदा ।यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ।। ७.७६.४५ ॥
Vālmīki 7.76.46
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।। ७.७६.४६ ॥
Vālmīki 7.76.47
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ।तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ।। ७.७६.४७ ॥
Vālmīki 7.76.48
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।। ७.७६.४८ ॥
Vālmīki 7.76.49
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ।। ७.७६.४९ ॥
Vālmīki 7.76.50
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ।आश्चर्याणां बहूनां हि निधिः परमको भवान् ।। ७.७६.५० ॥
Vālmīki 7.76.51
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ।शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ।। ७.७६.५१ ॥
Vālmīki 7.76.52
रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् ।आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ।। ७.७६.५२ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷