🪷 उत्तरकाण्ड · Sarga 75
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 75 · 19 ślokas
🪷 Devanāgarī Ślokas
नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥७-७५-१॥
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् ।बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥७-७५-२॥
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥७-७५-३॥
यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः ।विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥७-७५-४॥
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥७-७५-५॥
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।आजगाम मुहूर्तेन समीपे राघवस्य वै ॥७-७५-६॥
सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।वश्यस्तव महाबाहो किङ्करः समुपस्थितः ॥७-७५-७॥
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत ॥७-७५-८॥
धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् ।निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥७-७५-९॥
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥७-७५-१०॥
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः ॥७-७५-११॥
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ॥७-७५-१२॥
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥७-७५-१३॥
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥७-७५-१४॥
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥७-७५-१५॥
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥७-७५-१६॥
को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा ।वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥७-७५-१७॥
ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः ।वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥७-७५-१८॥
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ॥७-७५-१९॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 74
- Next: Uttara-Kāṇḍa Sarga 76 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷