🪷 उत्तरकाण्ड · Sarga 74

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 74 · 33 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.74.1
तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥७-७४-१॥
Vālmīki 7.74.2
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ॥७-७४-२॥
Vālmīki 7.74.3
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ॥७-७४-३॥
Vālmīki 7.74.4
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः ।कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा ।एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ॥७-७४-४॥
Vālmīki 7.74.5
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः ।मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ॥७-७४-५॥
Vālmīki 7.74.6
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ।राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ॥७-७४-६॥
Vālmīki 7.74.7
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ॥७-७४-७॥
Vālmīki 7.74.8
शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः ।श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ॥७-७४-८॥
Vālmīki 7.74.9
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः ।अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ॥७-७४-९॥
Vālmīki 7.74.10
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ।अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥७-७४-१०॥
Vālmīki 7.74.11
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ॥७-७४-११॥
Vālmīki 7.74.12
वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि ।मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥७-७४-१२॥
Vālmīki 7.74.13
ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् ।युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥७-७४-१३॥
Vālmīki 7.74.14
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ।स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ॥७-७४-१४॥
Vālmīki 7.74.15
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते ।अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥७-७४-१५॥
Vālmīki 7.74.16
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥७-७४-१६॥
Vālmīki 7.74.17
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥७-७४-१७॥
Vālmīki 7.74.18
अनृतं पातयित्वा तु पादमेकमधर्मतः ।ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥७-७४-१८॥
Vālmīki 7.74.19
पतिते त्वनृते तस्मिन्नधर्मे च महीतले ।शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ॥७-७४-१९॥
Vālmīki 7.74.20
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥७-७४-२०॥
Vālmīki 7.74.21
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ।पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥७-७४-२१॥
Vālmīki 7.74.22
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ।ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ॥७-७४-२२॥
Vālmīki 7.74.23
ततः पादमधर्मस्स द्वितीयमवतारयत् ।ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ॥७-७४-२३॥
Vālmīki 7.74.24
तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये ।अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥७-७४-२४॥
Vālmīki 7.74.25
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् ।त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥७-७४-२५॥
Vālmīki 7.74.26
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ।न शुद्धो लभते धर्मं युगतस्तु नरर्षभ ।हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥७-७४-२६॥
Vālmīki 7.74.27
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे ।अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ॥७-७४-२७॥
Vālmīki 7.74.28
स वै विषयपर्यन्ते तव राजन्महातपाः ।अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥७-७४-२८॥
Vālmīki 7.74.29
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ।करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।क्षिप्रं च नरकं याति स च राजा न संशयः ॥७-७४-२९॥
Vālmīki 7.74.30
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥७-७४-३०॥
Vālmīki 7.74.31
षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ॥७-७४-३१॥
Vālmīki 7.74.32
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥७-७४-३२॥
Vālmīki 7.74.33
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥७-७४-३३॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷