🪷 उत्तरकाण्ड · Sarga 73

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 73 · 19 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.73.1
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥७-७३-१॥
Vālmīki 7.73.2
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ।मृतं बालमुपादाय राजद्वारमुपागमत् ॥७-७३-२॥
Vālmīki 7.73.3
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ।असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥७-७३-३॥
Vālmīki 7.73.4
किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥७-७३-४॥
Vālmīki 7.73.5
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।अकाले कालमापन्नं मम दुःखाय पुत्रक ॥७-७३-५॥
Vālmīki 7.73.6
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।अहं च जननी चैव तव शोकेन पुत्रक ॥७-७३-६॥
Vālmīki 7.73.7
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ।सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ॥७-७३-७॥
Vālmīki 7.73.8
केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥७-७३-८॥
Vālmīki 7.73.9
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।मृत्युरप्राप्तकालानां रामस्य विषये यथा ॥७-७३-९॥
Vālmīki 7.73.10
रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।यथा हि विषयस्थानां बालानां मृत्युरागतः ॥७-७३-१०॥
Vālmīki 7.73.11
नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥७-७३-११॥
Vālmīki 7.73.12
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥७-७३-१२॥
Vālmīki 7.73.13
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ॥७-७३-१३॥
Vālmīki 7.73.14
इदं तु पतितं तस्मात्तव राम वशे स्थिताः ।कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ॥७-७३-१४॥
Vālmīki 7.73.15
सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥७-७३-१५॥
Vālmīki 7.73.16
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।असद्वृत्ते तु नृपतावकाले म्रियते जनः ॥७-७३-१६॥
Vālmīki 7.73.17
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम् ॥७-७३-१७॥
Vālmīki 7.73.18
सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।पुरे जनपदे चापि ततो बालवधो ह्ययम् ॥७-७३-१८॥
Vālmīki 7.73.19
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।राजानं दुःखसन्तप्तः सुतं तमुपगूहते ॥७-७३-१९॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷