🪷 उत्तरकाण्ड · Sarga 70
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 70 · 17 ślokas
🪷 Devanāgarī Ślokas
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥७-७०-१॥
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।हतः पुरुषशार्दूल वरं वरय सुव्रत ॥७-७०-२॥
वरदास्तु महाबाहो सर्व एव समागताः ।विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥७-७०-३॥
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ॥७-७०-४॥
इयं मधुपुरी रस्या मधुरा देवनिर्मिता ।निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ॥७-७०-५॥
तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।भविष्यति पुरी रम्या शूरसेना न संशयः ॥७-७०-६॥
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ॥७-७०-७॥
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥७-७०-८॥
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे ।निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥७-७०-९॥
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥७-७०-१०॥
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ॥७-७०-११॥
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ॥७-७०-१२॥
आरामैश्च विहारैश्च शोभमानं समन्ततः ।शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ॥७-७०-१३॥
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ॥७-७०-१४॥
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥७-७०-१५॥
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ॥७-७०-१६॥
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥७-७०-१७॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 69
- Next: Uttara-Kāṇḍa Sarga 71 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷