🪷 उत्तरकाण्ड · Sarga 71

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 71 · 24 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.71.1
ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् ।अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥७-७१-१॥
Vālmīki 7.71.2
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च ।जगाम हयमुख्यैश्च रथानां च शतेन सः ॥७-७१-२॥
Vālmīki 7.71.3
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥७-७१-३॥
Vālmīki 7.71.4
सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ॥७-७१-४॥
Vālmīki 7.71.5
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥७-७१-५॥
Vālmīki 7.71.6
उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥७-७१-६॥
Vālmīki 7.71.7
बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।लवणेन महाबाहो युध्यमाना महाबलाः ॥७-७१-७॥
Vālmīki 7.71.8
स त्वया निहतः पापो लीलया पुरुषर्षभ ।जगतश्च भयं तत्र प्रशान्तं तव तेजसा ॥७-७१-८॥
Vālmīki 7.71.9
रावणस्य वधो घोरो यत्नेन महता कृतः ।इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥७-७१-९॥
Vālmīki 7.71.10
प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥७-७१-१०॥
Vālmīki 7.71.11
तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।सभायां वासवस्याथ उपविष्टेन राघव ॥७-७१-११॥
Vālmīki 7.71.12
ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥७-७१-१२॥
Vālmīki 7.71.13
इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः ।आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥७-७१-१३॥
Vālmīki 7.71.14
स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ॥७-७१-१४॥
Vālmīki 7.71.15
तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥७-७१-१५॥
Vālmīki 7.71.16
तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ॥७-७१-१६॥
Vālmīki 7.71.17
स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ।तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥७-७१-१७॥
Vālmīki 7.71.18
पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् ।अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ॥७-७१-१८॥
Vālmīki 7.71.19
परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ।किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ॥७-७१-१९॥
Vālmīki 7.71.20
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ॥७-७१-२०॥
Vālmīki 7.71.21
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥७-७१-२१॥
Vālmīki 7.71.22
शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् ।सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ॥७-७१-२२॥
Vālmīki 7.71.23
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ॥७-७१-२३॥
Vālmīki 7.71.24
एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः ।अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥७-७१-२४॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷