🪷 उत्तरकाण्ड · Sarga 69

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 69 · 40 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.69.1
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥७-६९-१॥
Vālmīki 7.69.2
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च ।लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥७-६९-२॥
Vālmīki 7.69.3
तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् ।शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥७-६९-३॥
Vālmīki 7.69.4
न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया ।तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ॥७-६९-४॥
Vālmīki 7.69.5
ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे ।पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥७-६९-५॥
Vālmīki 7.69.6
त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर ।पुरे जनपदे चापि क्षेममेव भविष्यति ॥७-६९-६॥
Vālmīki 7.69.7
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥७-६९-७॥
Vālmīki 7.69.8
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ॥७-६९-८॥
Vālmīki 7.69.9
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ॥७-६९-९॥
Vālmīki 7.69.10
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥७-६९-१०॥
Vālmīki 7.69.11
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ॥७-६९-११॥
Vālmīki 7.69.12
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ॥७-६९-१२॥
Vālmīki 7.69.13
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥७-६९-१३॥
Vālmīki 7.69.14
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥७-६९-१४॥
Vālmīki 7.69.15
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ॥७-६९-१५॥
Vālmīki 7.69.16
मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः ।शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ॥७-६९-१६॥
Vālmīki 7.69.17
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥७-६९-१७॥
Vālmīki 7.69.18
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥७-६९-१८॥
Vālmīki 7.69.19
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ॥७-६९-१९॥
Vālmīki 7.69.20
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥७-६९-२०॥
Vālmīki 7.69.21
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥७-६९-२१॥
Vālmīki 7.69.22
उवाच देवदेवेशं वरदं प्रपितामहम् ।देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ॥७-६९-२२॥
Vālmīki 7.69.23
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ।देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ॥७-६९-२३॥
Vālmīki 7.69.24
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।भयकारणमाचष्ट लोकानामभयङ्करः ।उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ॥७-६९-२४॥
Vālmīki 7.69.25
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ॥७-६९-२५॥
Vālmīki 7.69.26
एष पूर्वस्य देवस्य लोककर्तुः सनातनः ।शरस्तेजोमयो वत्सा येन वै भयमागतम् ॥७-६९-२६॥
Vālmīki 7.69.27
एष वै कैटभस्यार्थे मधुनश्च महाशरः ।सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥७-६९-२७॥
Vālmīki 7.69.28
एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥७-६९-२८॥
Vālmīki 7.69.29
इतो गच्छत पश्यध्वं वध्यमानं महात्मना ।रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥७-६९-२९॥
Vālmīki 7.69.30
तस्य ते देवदेवस्य निशम्य वचनं सुराः ।आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥७-६९-३०॥
Vālmīki 7.69.31
तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ।ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥७-६९-३१॥
Vālmīki 7.69.32
अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ॥७-६९-३२॥
Vālmīki 7.69.33
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ।लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥७-६९-३३॥
Vālmīki 7.69.34
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।तं मुमोच महाबाणं लवणस्य महोरसि ॥७-६९-३४॥
Vālmīki 7.69.35
उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥७-६९-३५॥
Vālmīki 7.69.36
गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥७-६९-३६॥
Vālmīki 7.69.37
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।पपात सहसा भूमौ वज्राहत इवाचलः ॥७-६९-३७॥
Vālmīki 7.69.38
तच्च शूलं महत्तेन हते लवणराक्षसे ।पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥७-६९-३८॥
Vālmīki 7.69.39
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः ।विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥७-६९-३९॥
Vālmīki 7.69.40
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः ।दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥७-६९-४०॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷