🪷 उत्तरकाण्ड · Sarga 68

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 68 · 20 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.68.1
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥७-६८-१॥
Vālmīki 7.68.2
ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ॥७-६८-२॥
Vālmīki 7.68.3
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥७-६८-३॥
Vālmīki 7.68.4
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥७-६८-४॥
Vālmīki 7.68.5
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।तमुवाच ततो रक्षः किमनेन करिष्यसि ॥७-६८-५॥
Vālmīki 7.68.6
ईदृशानां सहस्राणि सायुधानां नराधम ।भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ॥७-६८-६॥
Vālmīki 7.68.7
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम ।स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ॥७-६८-७॥
Vālmīki 7.68.8
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥७-६८-८॥
Vālmīki 7.68.9
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥७-६८-९॥
Vālmīki 7.68.10
उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् ।योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥७-६८-१०॥
Vālmīki 7.68.11
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ॥७-६८-११॥
Vālmīki 7.68.12
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ॥७-६८-१२॥
Vālmīki 7.68.13
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ॥७-६८-१३॥
Vālmīki 7.68.14
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ।हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥७-६८-१४॥
Vālmīki 7.68.15
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥७-६८-१५॥
Vālmīki 7.68.16
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा ।भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥७-६८-१६॥
Vālmīki 7.68.17
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये ।ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥७-६८-१७॥
Vālmīki 7.68.18
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ॥७-६८-१८॥
Vālmīki 7.68.19
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ।स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ॥७-६८-१९॥
Vālmīki 7.68.20
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि ।यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥७-६८-२०॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷