🪷 उत्तरकाण्ड · Sarga 67
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 67 · 26 ślokas
🪷 Devanāgarī Ślokas
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥७-६७-१॥
शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः ।अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥७-६७-२॥
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥७-६७-३॥
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन ।इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ॥७-६७-४॥
अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥७-६७-५॥
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥७-६७-६॥
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥७-६७-७॥
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥७-६७-८॥
तस्य पापमभिप्रायं विदित्वा पाकशासनः ।सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥७-६७-९॥
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ ।अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥७-६७-१०॥
यदि वीर समग्रा ते मेदिनी निखिला वशे ।देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥७-६७-११॥
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥७-६७-१२॥
तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ॥७-६७-१३॥
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥७-६७-१४॥
आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः ।पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥७-६७-१५॥
स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः ।आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥७-६७-१६॥
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।दूतं सम्प्रेषयामास सकाशं लवणस्य हि ॥७-६७-१७॥
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥७-६७-१८॥
चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥७-६७-१९॥
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना ।वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥७-६७-२०॥
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ॥७-६७-२१॥
एवं स राजा सुमहान्हतः सबलवाहनः ।शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥७-६७-२२॥
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥७-६७-२३॥
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ।एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ॥७-६७-२४॥
शूलस्य च बलं घोरमप्रमेयं नरर्षभ ।विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ॥७-६७-२५॥
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ।शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ॥७-६७-२६॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 66
- Next: Uttara-Kāṇḍa Sarga 68 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷