🪷 उत्तरकाण्ड · Sarga 66
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 66 · 17 ślokas
🪷 Devanāgarī Ślokas
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥७-६६-१॥
ततो ऽर्धरात्रसमये बालका मुनिदारकाः ।वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥७-६६-२॥
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् ।ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥७-६६-३॥
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् ।बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥७-६६-४॥
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥७-६६-५॥
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥७-६६-६॥
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥७-६६-७॥
यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ।निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥७-६६-८॥
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥७-६६-९॥
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः ।अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥७-६६-१०॥
तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ।सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥७-६६-११॥
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ।पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥७-६६-१२॥
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ॥७-६६-१३॥
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥७-६६-१४॥
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥७-६६-१५॥
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥७-६६-१६॥
स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ।कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ॥७-६६-१७॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 65
- Next: Uttara-Kāṇḍa Sarga 67 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷