🪷 उत्तरकाण्ड · Sarga 65

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 65 · 39 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 7.65local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.65.1
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ।। ७.६५.१ ॥
Vālmīki 7.65.2
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ।। ७.६५.२ ॥
Vālmīki 7.65.3
सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ।। ७.६५.३ ॥
Vālmīki 7.65.4
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ।। ७.६५.४ ॥
Vālmīki 7.65.5
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।प्रत्युवाच महात्मानं स्वागतं ते महायशः ।। ७.६५.५ ॥
Vālmīki 7.65.6
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि ।आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ।। ७.६५.६ ॥
Vālmīki 7.65.7
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ।। ७.६५.७ ॥
Vālmīki 7.65.8
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ।। ७.६५.८ ॥
Vālmīki 7.65.9
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ।। ७.६५.९ ॥
Vālmīki 7.65.10
युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः ।पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ।। ७.६५.१० ॥
Vālmīki 7.65.11
स बाल एव सौदासो मृगयामुपचक्रमे ।चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ।। ७.६५.११ ॥
Vālmīki 7.65.12
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः ।भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ।। ७.६५.१२ ॥
Vālmīki 7.65.13
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ।। ७.६५.१३ ॥
Vālmīki 7.65.14
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ।। ७.६५.१४ ॥
Vālmīki 7.65.15
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ।। ७.६५.१५ ॥
Vālmīki 7.65.16
यस्मादनपराधं त्वं सहायं मम जघ्निवान् ।तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ।। ७.६५.१६ ॥
Vālmīki 7.65.17
एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत ।कालपर्याययोगेन राजा मित्रसहो ऽभवत् ।। ७.६५.१७ ॥
Vālmīki 7.65.18
राजापि यजते यज्ञमस्याश्रमसमीपतः ।अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ।। ७.६५.१८ ॥
Vālmīki 7.65.19
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः ।समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ।। ७.६५.१९ ॥
Vālmīki 7.65.20
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।वसिष्ठरूपी राजानमिति होवाच राक्षसः ।। ७.६५.२० ॥
Vālmīki 7.65.21
अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम ।दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ।। ७.६५.२१ ॥
Vālmīki 7.65.22
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ।। ७.६५.२२ ॥
Vālmīki 7.65.23
हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ।। ७.६५.२३ ॥
Vālmīki 7.65.24
शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः ।स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ।। ७.६५.२४ ॥
Vālmīki 7.65.25
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ।। ७.६५.२५ ॥
Vālmīki 7.65.26
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ।। ७.६५.२६ ॥
Vālmīki 7.65.27
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ।। ७.६५.२७ ॥
Vālmīki 7.65.28
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।तस्माद्भोजनमेतत्ते भविष्यति न संशयः ।। ७.६५.२८ ॥
Vālmīki 7.65.29
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ।। ७.६५.२९ ॥
Vālmīki 7.65.30
राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः ।प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ।। ७.६५.३० ॥
Vālmīki 7.65.31
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ।। ७.६५.३१ ॥
Vālmīki 7.65.32
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः ।कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।। ७.६५.३२ ॥
Vālmīki 7.65.33
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ।। ७.६५.३३ ॥
Vālmīki 7.65.34
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ।। ७.६५.३४ ॥
Vālmīki 7.65.35
मया रोषपरीतेन यदिदं व्याहृतं वचः ।नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ।। ७.६५.३५ ॥
Vālmīki 7.65.36
कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति ।मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ।। ७.६५.३६ ॥
Vālmīki 7.65.37
एवं स राजा तं शापमुपभुज्यारिसूदनः ।प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ।। ७.६५.३७ ॥
Vālmīki 7.65.38
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ।। ७.६५.३८ ॥
Vālmīki 7.65.39
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।विवेश पर्णशालायां महर्षिमभिवाद्य च ।। ७.६५.३९ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷