🪷 उत्तरकाण्ड · Sarga 64

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 64 · 18 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 7.64local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.64.1
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।पुनरेवापरं वाक्यमुवाच रघुनन्दनः ।। ७.६४.१ ॥
Vālmīki 7.64.2
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ।। ७.६४.२ ॥
Vālmīki 7.64.3
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः ।अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ।। ७.६४.३ ॥
Vālmīki 7.64.4
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। ७.६४.४ ॥
Vālmīki 7.64.5
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् ।सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ।। ७.६४.५ ॥
Vālmīki 7.64.6
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ।। ७.६४.६ ॥
Vālmīki 7.64.7
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ।। ७.६४.७ ॥
Vālmīki 7.64.8
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। ७.६४.८ ॥
Vālmīki 7.64.9
न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ ।दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ।। ७.६४.९ ॥
Vālmīki 7.64.10
स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते ।हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ।। ७.६४.१० ॥
Vālmīki 7.64.11
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः ।यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ।। ७.६४.११ ॥
Vālmīki 7.64.12
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ।। ७.६४.१२ ॥
Vālmīki 7.64.13
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ।सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ।। ७.६४.१३ ॥
Vālmīki 7.64.14
एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। ७.६४.१४ ॥
Vālmīki 7.64.15
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। ७.६४.१५ ॥
Vālmīki 7.64.16
रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च ।रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। ७.६४.१६ ॥
Vālmīki 7.64.17
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ।। ७.६४.१७ ॥
Vālmīki 7.64.18
प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् ।उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ।। ७.६४.१८ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷