🪷 उत्तरकाण्ड · Sarga 63

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 63 · 31 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.63.1
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् ।शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ॥७-६३-१॥
Vālmīki 7.63.2
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर ।कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥७-६३-२॥
Vālmīki 7.63.3
अवश्यं करणीयं च शासनं पुरुषर्षभ ।तव चैव महाभाग शासनं दुरतिक्रमम् ॥७-६३-३॥
Vālmīki 7.63.4
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ।नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥७-६३-४॥
Vālmīki 7.63.5
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ।तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ॥७-६३-५॥
Vālmīki 7.63.6
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।अधर्मसहितं चैव परलोकविवर्जितम् ॥७-६३-६॥
Vālmīki 7.63.7
सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् ।मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥७-६३-७॥
Vālmīki 7.63.8
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ ।अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥७-६३-८॥
Vālmīki 7.63.9
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ।उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥७-६३-९॥
Vālmīki 7.63.10
सम्भारानभिषेकस्य आनयध्वं समाहिताः ।अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥७-६३-१०॥
Vālmīki 7.63.11
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा ।मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥७-६३-११॥
Vālmīki 7.63.12
राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः ।अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ।प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ॥७-६३-१२॥
Vālmīki 7.63.13
तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ।सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ॥७-६३-१३॥
Vālmīki 7.63.14
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः ।अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ॥७-६३-१४॥
Vālmīki 7.63.15
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा ।पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ॥७-६३-१५॥
Vālmīki 7.63.16
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा ।चक्रुस्ता राजभवने याश्चान्या राजयोषितः ॥७-६३-१६॥
Vālmīki 7.63.17
ऋषयश्च महात्मानो यमुनातीरवासिनः ।हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ॥७-६३-१७॥
Vālmīki 7.63.18
ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ।उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥७-६३-१८॥
Vālmīki 7.63.19
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः ।अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ॥७-६३-१९॥
Vālmīki 7.63.20
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ॥७-६३-२०॥
Vālmīki 7.63.21
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः ।अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ॥७-६३-२१॥
Vālmīki 7.63.22
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ।मधुकैटभयोर्वीर विघाते वर्तमानयोः ।स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ॥७-६३-२२॥
Vālmīki 7.63.23
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा ।अनेन शरमुख्येन ततो लोकांश्चकार सः ॥७-६३-२३॥
Vālmīki 7.63.24
नायं मया शरः पूर्वं रावणस्य वधार्थिना ।मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ॥७-६३-२४॥
Vālmīki 7.63.25
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ।दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥७-६३-२५॥
Vālmīki 7.63.26
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः ।दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥७-६३-२६॥
Vālmīki 7.63.27
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् ।तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ॥७-६३-२७॥
Vālmīki 7.63.28
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् ।अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ॥७-६३-२८॥
Vālmīki 7.63.29
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ।आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ॥७-६३-२९॥
Vālmīki 7.63.30
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ।यदि त्वेवं कृते वीर विनाशमुपयास्यति ॥७-६३-३०॥
Vālmīki 7.63.31
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः ।श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥७-६३-३१॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷