🪷 उत्तरकाण्ड · Sarga 62

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 62 · 21 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 7.62local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.62.1
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः ।किमाहारः किमाचारो लवणः क्व च वर्तते ।। ७.६२.१ ॥
Vālmīki 7.62.2
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।ततो निवेदयामासुर्लवणो ववृधे यथा ।। ७.६२.२ ॥
Vālmīki 7.62.3
आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।आचारो रौद्रता नित्यं वासो मधुवने तथा ।। ७.६२.३ ॥
Vālmīki 7.62.4
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् ।मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ।। ७.६२.४ ॥
Vālmīki 7.62.5
ततो ऽन्तराणि सत्त्वानि खादते स महाबलः ।संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ।। ७.६२.५ ॥
Vālmīki 7.62.6
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ।। ७.६२.६ ॥
Vālmīki 7.62.7
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः ।। ७.६२.७ ॥
Vālmīki 7.62.8
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ।। ७.६२.८ ॥
Vālmīki 7.62.9
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।अहमेनं वधिष्यामि ममांशः स विधीयताम् ।। ७.६२.९ ॥
Vālmīki 7.62.10
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ।। ७.६२.१० ॥
Vālmīki 7.62.11
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ।। ७.६२.११ ॥
Vālmīki 7.62.12
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ।। ७.६२.१२ ॥
Vālmīki 7.62.13
दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव ।शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा ।। ७.६२.१३ ॥
Vālmīki 7.62.14
फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।अनुभूयेदृशं दुःखमेष राघवनन्दनः ।प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ।। ७.६२.१४ ॥
Vālmīki 7.62.15
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ।। ७.६२.१५ ॥
Vālmīki 7.62.16
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।निवेशय महाबाहो भरतं यद्यवेक्षसे ।। ७.६२.१६ ॥
Vālmīki 7.62.17
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ।। ७.६२.१७ ॥
Vālmīki 7.62.18
यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये ।न विधत्ते नृपं तत्र नरकं स हि गच्छति ।। ७.६२.१८ ॥
Vālmīki 7.62.19
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ।। ७.६२.१९ ॥
Vālmīki 7.62.20
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ।। ७.६२.२० ॥
Vālmīki 7.62.21
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ।। ७.६२.२१ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷