🪷 उत्तरकाण्ड · Sarga 61

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 61 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.61.1
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् ।किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥७-६१-१॥
Vālmīki 7.61.2
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।भयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥७-६१-२॥
Vālmīki 7.61.3
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः ।लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥७-६१-३॥
Vālmīki 7.61.4
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ॥७-६१-४॥
Vālmīki 7.61.5
स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः ।बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ॥७-६१-५॥
Vālmīki 7.61.6
रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः ।बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥७-६१-६॥
Vālmīki 7.61.7
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥७-६१-७॥
Vālmīki 7.61.8
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः ।प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥७-६१-८॥
Vālmīki 7.61.9
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ॥७-६१-९॥
Vālmīki 7.61.10
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥७-६१-१०॥
Vālmīki 7.61.11
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥७-६१-११॥
Vālmīki 7.61.12
भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥७-६१-१२॥
Vālmīki 7.61.13
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥७-६१-१३॥
Vālmīki 7.61.14
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥७-६१-१४॥
Vālmīki 7.61.15
यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते ।अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥७-६१-१५॥
Vālmīki 7.61.16
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥७-६१-१६॥
Vālmīki 7.61.17
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥७-६१-१७॥
Vālmīki 7.61.18
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥७-६१-१८॥
Vālmīki 7.61.19
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥७-६१-१९॥
Vālmīki 7.61.20
स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ।शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥७-६१-२०॥
Vālmīki 7.61.21
स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा ।सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥७-६१-२१॥
Vālmīki 7.61.22
एवंप्रभावो लवणः शूलं चैव तथाविधम् ।श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥७-६१-२२॥
Vālmīki 7.61.23
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।अभयं याचिता वीर त्रातारं न च विद्महे ॥७-६१-२३॥
Vālmīki 7.61.24
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥७-६१-२४॥
Vālmīki 7.61.25
इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् ।विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥७-६१-२५॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷