🪷 उत्तरकाण्ड · Sarga 60

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 60 · 18 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.60.1
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥७-६०-१॥
Vālmīki 7.60.2
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥७-६०-२॥
Vālmīki 7.60.3
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ॥७-६०-३॥
Vālmīki 7.60.4
भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः ।दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः ।प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥७-६०-४॥
Vālmīki 7.60.5
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ॥७-६०-५॥
Vālmīki 7.60.6
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।प्रवेशयामास तदा तापसान्सुदुरासदान् ॥७-६०-६॥
Vālmīki 7.60.7
शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥७-६०-७॥
Vālmīki 7.60.8
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥७-६०-८॥
Vālmīki 7.60.9
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः ।तीर्थोदकानि सर्वाणि फलानि विविधानि च ॥७-६०-९॥
Vālmīki 7.60.10
उवाच च महाबाहुः सर्वानेव महामुनीन् ।इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ॥७-६०-१०॥
Vālmīki 7.60.11
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥७-६०-११॥
Vālmīki 7.60.12
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥७-६०-१२॥
Vālmīki 7.60.13
किमागमनकार्यं वः किं करोमि समाहितः ।आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ॥७-६०-१३॥
Vālmīki 7.60.14
इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ॥७-६०-१४॥
Vālmīki 7.60.15
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥७-६०-१५॥
Vālmīki 7.60.16
ऊचुश्च ते महात्मानो हर्षेण महता वृताः ।उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥७-६०-१६॥
Vālmīki 7.60.17
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥७-६०-१७॥
Vālmīki 7.60.18
त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि ॥७-६०-१८॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷