🪷 उत्तरकाण्ड · Sarga 59

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 59 · 23 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.59.1
श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः ।जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥७-५९-१॥
Vālmīki 7.59.2
यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् ।जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥७-५९-२॥
Vālmīki 7.59.3
न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ ।अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ॥७-५९-३॥
Vālmīki 7.59.4
यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् ।पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ॥७-५९-४॥
Vālmīki 7.59.5
बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव ।प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ॥७-५९-५॥
Vālmīki 7.59.6
तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् ।इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ॥७-५९-६॥
Vālmīki 7.59.7
नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् ।धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ॥७-५९-७॥
Vālmīki 7.59.8
पूरोर्वचनमाज्ञाय नाहुषः परया मुदा ।प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ॥७-५९-८॥
Vālmīki 7.59.9
ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ।बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥७-५९-९॥
Vālmīki 7.59.10
अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् ।आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ॥७-५९-१०॥
Vālmīki 7.59.11
न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा ।तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ॥७-५९-११॥
Vālmīki 7.59.12
प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् ।त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ॥७-५९-१२॥
Vālmīki 7.59.13
एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः ।देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥७-५९-१३॥
Vālmīki 7.59.14
राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ।प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ॥७-५९-१४॥
Vālmīki 7.59.15
पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे ।राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥७-५९-१५॥
Vālmīki 7.59.16
न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः ।वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥७-५९-१६॥
Vālmīki 7.59.17
तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् ।अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ॥७-५९-१७॥
Vālmīki 7.59.18
ततः कालेन महता दिष्टान्तमुपजग्मिवान् ।त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ॥७-५९-१८॥
Vālmīki 7.59.19
पूरुश्चकार तद्राज्यं धर्मेण महता वृतः ।प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ॥७-५९-१९॥
Vālmīki 7.59.20
यदुस्तु जनयामास यातुधानान्सहस्रशः ।पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ॥७-५९-२०॥
Vālmīki 7.59.21
एष तूशनसा मुक्तः शापोत्सर्गो ययातिना ।धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ॥७-५९-२१॥
Vālmīki 7.59.22
एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् ।अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ॥७-५९-२२॥
Vālmīki 7.59.23
इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् ।अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥७-५९-२३॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷