🪷 उत्तरकाण्ड · Sarga 58
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 58 · 25 ślokas
🪷 Devanāgarī Ślokas
एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा ।प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥७-५८-१॥
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् ।निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ॥७-५८-२॥
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ।न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ॥७-५८-३॥
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः ।उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ॥७-५८-४॥
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ।न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ॥७-५८-५॥
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना ।सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ॥७-५८-६॥
नहुषस्य सुतो राजा ययातिः पौरवर्धनः ।तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥७-५८-७॥
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता ।शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥७-५८-८॥
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ ।न तु सा दयिता राज्ञो देवयानी सुमध्यमा ॥७-५८-९॥
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ ।शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ॥७-५८-१०॥
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ।ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ॥७-५८-११॥
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ।सहसे हृद्गतं दुःखमवमानं च दुःसहम् ॥७-५८-१२॥
आवां च सहितौ देवि प्रविशाव हुताशनम् ।राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ॥७-५८-१३॥
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि ।क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ॥७-५८-१४॥
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः ।देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ॥७-५८-१५॥
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा ।आगतस्त्वरितं तत्र देवयानी तु यत्र सा ॥७-५८-१६॥
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ।पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ॥७-५८-१७॥
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् ।देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ॥७-५८-१८॥
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम ।भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥७-५८-१९॥
न मां त्वमवजानीषे दुःखितामवमानिताम् ।वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ॥७-५८-२०॥
अवज्ञया च राजर्षिः परिभूय च भार्गव ।मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ॥७-५८-२१॥
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः ।व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ॥७-५८-२२॥
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् ।जरया परया जीर्णः शैथिल्यमुपयास्यसि ॥७-५८-२३॥
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः ।पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ॥७-५८-२४॥
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् ।पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥७-५८-२५॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 57
- Next: Uttara-Kāṇḍa Sarga 59 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷