🪷 उत्तरकाण्ड · Sarga 57

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 57 · 20 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.57.1
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् ।लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥७-५७-१॥
Vālmīki 7.57.2
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ॥७-५७-२॥
Vālmīki 7.57.3
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ।तां कथां कथयामास वसिष्ठस्य महात्मनः ॥७-५७-३॥
Vālmīki 7.57.4
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ॥७-५७-४॥
Vālmīki 7.57.5
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ।नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥७-५७-५॥
Vālmīki 7.57.6
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् ।तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ॥७-५७-६॥
Vālmīki 7.57.7
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः ।वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ॥७-५७-७॥
Vālmīki 7.57.8
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् ।वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ॥७-५७-८॥
Vālmīki 7.57.9
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ।कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ॥७-५७-९॥
Vālmīki 7.57.10
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते ।तं च ते योजयामासुर्यागदीक्षां मनीषिणः ॥७-५७-१०॥
Vālmīki 7.57.11
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः ।गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥७-५७-११॥
Vālmīki 7.57.12
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ॥७-५७-१२॥
Vālmīki 7.57.13
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् ।वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ॥७-५७-१३॥
Vālmīki 7.57.14
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् ।नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ॥७-५७-१४॥
Vālmīki 7.57.15
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् ।नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ॥७-५७-१५॥
Vālmīki 7.57.16
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते ।वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ॥७-५७-१६॥
Vālmīki 7.57.17
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ।ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ॥७-५७-१७॥
Vālmīki 7.57.18
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा ।मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ॥७-५७-१८॥
Vālmīki 7.57.19
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः ।मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् ।यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ॥७-५७-१९॥
Vālmīki 7.57.20
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् ।मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ॥७-५७-२०॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷