🪷 उत्तरकाण्ड · Sarga 56

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 56 · 29 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.56.1
रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥७-५६-१॥
Vālmīki 7.56.2
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ ।पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ॥७-५६-२॥
Vālmīki 7.56.3
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः ।प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥७-५६-३॥
Vālmīki 7.56.4
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ ।अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ॥७-५६-४॥
Vālmīki 7.56.5
अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः ।वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ॥७-५६-५॥
Vālmīki 7.56.6
सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् ।पितामहमथोवाच वायुभूत इदं वचः ॥७-५६-६॥
Vālmīki 7.56.7
भगवन्निमिशापेन विदेहत्वमुपागमम् ।लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः ॥७-५६-७॥
Vālmīki 7.56.8
सर्वेषां देहहीनानां महद्दुःखं भविष्यति ।लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो ।देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ॥७-५६-८॥
Vālmīki 7.56.9
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः ।मित्रावरुणजं तेज प्रविश त्वं महायशः ॥७-५६-९॥
Vālmīki 7.56.10
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ।धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥७-५६-१०॥
Vālmīki 7.56.11
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् ।कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥७-५६-११॥
Vālmīki 7.56.12
तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् ।क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ॥७-५६-१२॥
Vālmīki 7.56.13
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ।यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ॥७-५६-१३॥
Vālmīki 7.56.14
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये ।आविशत्परमो हर्षो वरुणं चोर्वशीकृते ॥७-५६-१४॥
Vālmīki 7.56.15
स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् ।वरुणो वरयामास मैथुनायाप्सरोवराम् ॥७-५६-१५॥
Vālmīki 7.56.16
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता ।मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ॥७-५६-१६॥
Vālmīki 7.56.17
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः ।इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते ॥७-५६-१७॥
Vālmīki 7.56.18
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि ।कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ॥७-५६-१८॥
Vālmīki 7.56.19
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् ।उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥७-५६-१९॥
Vālmīki 7.56.20
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् ।भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ॥७-५६-२०॥
Vālmīki 7.56.21
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ।ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ॥७-५६-२१॥
Vālmīki 7.56.22
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता ।तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ॥७-५६-२२॥
Vālmīki 7.56.23
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता ।पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ॥७-५६-२३॥
Vālmīki 7.56.24
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता ।मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ॥७-५६-२४॥
Vālmīki 7.56.25
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः ।तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥७-५६-२५॥
Vālmīki 7.56.26
ततः सा शापदोषेण पुरूरवसमभ्यगात् ।प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ॥७-५६-२६॥
Vālmīki 7.56.27
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ।नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥७-५६-२७॥
Vālmīki 7.56.28
वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे ।शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥७-५६-२८॥
Vālmīki 7.56.29
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा ।बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ॥७-५६-२९॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷