🪷 उत्तरकाण्ड · Sarga 55

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 55 · 21 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.55.1
एष ते नृगशापस्य विस्तरो ऽभिहितो मया ।यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥७-५५-१॥
Vālmīki 7.55.2
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥७-५५-२॥
Vālmīki 7.55.3
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥७-५५-३॥
Vālmīki 7.55.4
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥७-५५-४॥
Vālmīki 7.55.5
स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् ।निवेशयामास तदा अभ्याशे गौतमस्य तु ॥७-५५-५॥
Vālmīki 7.55.6
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥७-५५-६॥
Vālmīki 7.55.7
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥७-५५-७॥
Vālmīki 7.55.8
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥७-५५-८॥
Vālmīki 7.55.9
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥७-५५-९॥
Vālmīki 7.55.10
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥७-५५-१०॥
Vālmīki 7.55.11
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ॥७-५५-११॥
Vālmīki 7.55.12
निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः ।अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः ।पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ॥७-५५-१२॥
Vālmīki 7.55.13
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः ।सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥७-५५-१३॥
Vālmīki 7.55.14
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ॥७-५५-१४॥
Vālmīki 7.55.15
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ॥७-५५-१५॥
Vālmīki 7.55.16
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥७-५५-१६॥
Vālmīki 7.55.17
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव ।चेतनेन विनाभूतो देहस्तव भविष्यति ॥७-५५-१७॥
Vālmīki 7.55.18
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ।ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ॥७-५५-१८॥
Vālmīki 7.55.19
अजानतः शयानस्य क्रोधेन कलुषीकृतः ।मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ॥७-५५-१९॥
Vālmīki 7.55.20
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः ।देहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥७-५५-२०॥
Vālmīki 7.55.21
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ।सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥७-५५-२१॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷