🪷 उत्तरकाण्ड · Sarga 54
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 54 · 19 ślokas
🪷 Devanāgarī Ślokas
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् ।उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥७-५४-१॥
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ।महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ॥७-५४-२॥
श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ ।किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ॥७-५४-३॥
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् ।शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ॥७-५४-४॥
अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा ।आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ॥७-५४-५॥
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ।दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ॥७-५४-६॥
नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् ।गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ॥७-५४-७॥
कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् ।श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम ।यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ॥७-५४-८॥
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा ।ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ॥७-५४-९॥
फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः ।विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ॥७-५४-१०॥
क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् ।सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ॥७-५४-११॥
पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः ।परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ॥७-५४-१२॥
एवं कृत्वा विधानं स सन्दिदेश वसं तदा ।धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ॥७-५४-१३॥
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः ।नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे ॥७-५४-१४॥
मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ ।कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ॥७-५४-१५॥
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥७-५४-१६॥
पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ॥७-५४-१७॥
एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ।श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ॥७-५४-१८॥
एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् ।सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ॥७-५४-१९॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 53
- Next: Uttara-Kāṇḍa Sarga 55 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷