🪷 उत्तरकाण्ड · Sarga 53

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 53 · 26 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.53.1
लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् ।सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥७-५३-१॥
Vālmīki 7.53.2
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः ।यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः ॥७-५३-२॥
Vālmīki 7.53.3
यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण ।तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥७-५३-३॥
Vālmīki 7.53.4
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै ।अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥७-५३-४॥
Vālmīki 7.53.5
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ।कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ॥७-५३-५॥
Vālmīki 7.53.6
पौरकार्याणि यो राजा न करोति दिने दिने ।संवृते नरके घोरे पतितो नात्र संशयः ॥७-५३-६॥
Vālmīki 7.53.7
श्रूयते हि पुरा राजा नृगो नाम महायशाः ।बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ॥७-५३-७॥
Vālmīki 7.53.8
स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः ।नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥७-५३-८॥
Vālmīki 7.53.9
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ ।ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ॥७-५३-९॥
Vālmīki 7.53.10
स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च ।नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ॥७-५३-१०॥
Vālmīki 7.53.11
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् ।ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥७-५३-११॥
Vālmīki 7.53.12
अथ तां नामधेयेन स्वकेनोवाच स द्विजः ।आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ॥७-५३-१२॥
Vālmīki 7.53.13
तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै ।अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥७-५३-१३॥
Vālmīki 7.53.14
यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् ।गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ॥७-५३-१४॥
Vālmīki 7.53.15
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ।तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥७-५३-१५॥
Vālmīki 7.53.16
विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः ।तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥७-५३-१६॥
Vālmīki 7.53.17
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ।ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ॥७-५३-१७॥
Vālmīki 7.53.18
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् ।अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ॥७-५३-१८॥
Vālmīki 7.53.19
बहुवर्षसहस्राणि बहुवर्षशतानि च ।श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ॥७-५३-१९॥
Vālmīki 7.53.20
उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः ।वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ॥७-५३-२०॥
Vālmīki 7.53.21
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि ।कृता च तेन कालेन निष्कृतिस्ते भविष्यति ॥७-५३-२१॥
Vālmīki 7.53.22
भारावतरणार्थं हि नरनारायणावुभौ ।उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥७-५३-२२॥
Vālmīki 7.53.23
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ।तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥७-५३-२३॥
Vālmīki 7.53.24
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ॥७-५३-२४॥
Vālmīki 7.53.25
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते ।तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ॥७-५३-२५॥
Vālmīki 7.53.26
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ।तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ॥७-५३-२६॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷