🪷 उत्तरकाण्ड · Sarga 52

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 52 · 19 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.52.1
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः ।प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥७-५२-१॥
Vālmīki 7.52.2
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः ।अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ॥७-५२-२॥
Vālmīki 7.52.3
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥७-५२-३॥
Vālmīki 7.52.4
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् ।रामस्य परमोदारं पुरस्तान्समदृश्यत ॥७-५२-४॥
Vālmīki 7.52.5
राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् ।अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥७-५२-५॥
Vālmīki 7.52.6
स दृष्ट्वा राघवं दीनमासीनं परमासने ।नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥७-५२-६॥
Vālmīki 7.52.7
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥७-५२-७॥
Vālmīki 7.52.8
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ॥७-५२-८॥
Vālmīki 7.52.9
तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् ।पुनरप्यागतो वीर पादमूलमुपासितुम् ॥७-५२-९॥
Vālmīki 7.52.10
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी ।त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ॥७-५२-१०॥
Vālmīki 7.52.11
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥७-५२-११॥
Vālmīki 7.52.12
तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ।नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥७-५२-१२॥
Vālmīki 7.52.13
शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि ।लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ॥७-५२-१३॥
Vālmīki 7.52.14
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ।अपवादः स किल ते पुनरेष्यति राघव ॥७-५२-१४॥
Vālmīki 7.52.15
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ।सो ऽपवादः पुरे राजन्भविष्यति न संशयः ॥७-५२-१५॥
Vālmīki 7.52.16
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ॥७-५२-१६॥
Vālmīki 7.52.17
एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना ।उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ॥७-५२-१७॥
Vālmīki 7.52.18
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।परितोषश्च मे वीर मम कार्यानुशासने ॥७-५२-१८॥
Vālmīki 7.52.19
निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः ।भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ॥७-५२-१९॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷