🪷 उत्तरकाण्ड · Sarga 51
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 51 · 32 ślokas
🪷 Devanāgarī Ślokas
तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥७-५१-१॥
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥७-५१-२॥
तमाश्रमं महातेजाः पिता ते सुमहायशाः ।पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ॥७-५१-३॥
स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥७-५१-४॥
तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् ।स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥ ॥७-५१-५॥
पाद्येन फलमूलैश्च उवास मुनिभिः सह ॥७-५१-६॥
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ।बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ॥७-५१-७॥
ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः ।उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ॥७-५१-८॥
भगवन्किं प्रमाणेन मम वंशो भविष्यति ।किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ॥७-५१-९॥
रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् ।काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ॥७-५१-१०॥
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ।दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥७-५१-११॥
शृणु राजन्पुरावृत्तं तदा देवासुरे युधि ।दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ॥७-५१-१२॥
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥७-५१-१३॥
तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः ।चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ॥७-५१-१४॥
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥७-५१-१५॥
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ।तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ॥७-५१-१६॥
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ॥७-५१-१७॥
शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् ॥७-५१-१८॥
अर्चयामास तं देवं भृगुः शापेन पीडितः ।तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः ।लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ॥७-५१-१९॥
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ।इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ॥७-५१-२०॥
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ।तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ॥७-५१-२१॥
अयोध्यायाः पती रामो दीर्घकालं भविष्यति ।सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ॥७-५१-२२॥
दश वर्षसहस्राणि दश वर्षशतानि च ।रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥७-५१-२३॥
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ।राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ॥७-५१-२४॥
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ।अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ॥७-५१-२५॥
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ॥७-५१-२६॥
स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥७-५१-२७॥
तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ ।अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ॥७-५१-२८॥
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ।श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ॥७-५१-२९॥
एवं गते न सन्तापं कर्तुमर्हसि राघव ।सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥७-५१-३०॥
श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥७-५१-३१॥
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥७-५१-३२॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 50
- Next: Uttara-Kāṇḍa Sarga 52 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷