🪷 उत्तरकाण्ड · Sarga 50
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 50 · 20 ślokas
🪷 Devanāgarī Ślokas
दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् ।सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ॥७-५०-१॥
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ।सीतासन्तापजं दुःखं पश्य रामस्य सारथे ॥७-५०-२॥
ततो दुःखतरं किं नु राघवस्य भविष्यति ।पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥७-५०-३॥
व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् ।वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥७-५०-४॥
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः ।निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥७-५०-५॥
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने ।उषित्वा नव वर्षाणि पञ्च चैव महावने ॥७-५०-६॥
ततो दुःखतरं भूयः सीताया विप्रवासनम् ।पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥७-५०-७॥
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ॥७-५०-८॥
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः ।सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥७-५०-९॥
न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति ।दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ॥७-५०-१०॥
भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् ।प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ॥७-५०-११॥
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ ।सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ॥७-५०-१२॥
इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा ।राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥७-५०-१३॥
महाजनसमीपे च मम चैव नरर्षभ ।ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥७-५०-१४॥
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ॥७-५०-१५॥
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः ।नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥७-५०-१६॥
सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः ।यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥७-५०-१७॥
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥७-५०-१८॥
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ।न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥७-५०-१९॥
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥७-५०-२०॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 49
- Next: Uttara-Kāṇḍa Sarga 51 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷