🪷 उत्तरकाण्ड · Sarga 49

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 49 · 24 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 7.49local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.49.1
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः ।प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ।। ७.४९.१ ॥
Vālmīki 7.49.2
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ।। ७.४९.२ ॥
Vālmīki 7.49.3
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ।। ७.४९.३ ॥
Vālmīki 7.49.4
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् ।नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ।। ७.४९.४ ॥
Vālmīki 7.49.5
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ।। ७.४९.५ ॥
Vālmīki 7.49.6
न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् ।आश्रमस्याविदूरे च त्वामियं शरणं गता ।। ७.४९.६ ॥
Vālmīki 7.49.7
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ।तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ।। ७.४९.७ ॥
Vālmīki 7.49.8
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ।। ७.४९.८ ॥
Vālmīki 7.49.9
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् ।ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ।। ७.४९.९ ।।
Vālmīki 7.49.10
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ।। ७.४९.१० ॥
Vālmīki 7.49.11
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ।। ७.४९.११ ॥
Vālmīki 7.49.12
आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ।। ७.४९.१२ ॥
Vālmīki 7.49.13
तव चैव महाभागे विदितं मम तत्त्वतः ।सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ।। ७.४९.१३ ॥
Vālmīki 7.49.14
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ।। ७.४९.१४ ॥
Vālmīki 7.49.15
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ।तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ।। ७.४९.१५ ॥
Vālmīki 7.49.16
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ।। ७.४९.१६ ॥
Vālmīki 7.49.17
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ।। ७.४९.१७ ॥
Vālmīki 7.49.18
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ।। ७.४९.१८ ॥
Vālmīki 7.49.19
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।। ७.४९.१९ ॥
Vālmīki 7.49.20
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ।। ७.४९.२० ॥
Vālmīki 7.49.21
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ।। ७.४९.२१ ॥
Vālmīki 7.49.22
स्नुषा दशरथस्यैषा जनकस्य सुता सती ।अपापा पतिना त्यक्ता परिपाल्या मया सदा ।। ७.४९.२२ ॥
Vālmīki 7.49.23
इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि ।गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ।। ७.४९.२३ ॥
Vālmīki 7.49.24
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ।। ७.४९.२४ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷