🪷 उत्तरकाण्ड · Sarga 48

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 48 · 26 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.48.1
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ।परं विषादमागम्य वैदेही निपपात ह ॥७-४८-१॥
Vālmīki 7.48.2
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा ।लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥७-४८-२॥
Vālmīki 7.48.3
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ।धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ॥७-४८-३॥
Vālmīki 7.48.4
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः ।या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥७-४८-४॥
Vālmīki 7.48.5
पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी ।अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ॥७-४८-५॥
Vālmīki 7.48.6
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ।आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥७-४८-६॥
Vālmīki 7.48.7
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् ।कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ॥७-४८-७॥
Vālmīki 7.48.8
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ।त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥७-४८-८॥
Vālmīki 7.48.9
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् ।निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥७-४८-९॥
Vālmīki 7.48.10
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च ।शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ॥७-४८-१०॥
Vālmīki 7.48.11
शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ।वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ॥७-४८-११॥
Vālmīki 7.48.12
जानासि च यथा शुद्धा सीता तत्त्वेन राघव ।भक्त्या च परया युक्ता हिता च तव नित्यशः ॥७-४८-१२॥
Vālmīki 7.48.13
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने ।यच्च ते वचनीयं स्यादपवादसमुत्थितम् ।मया च परिहर्तव्यं त्वं हि मे परमा गतिः ॥७-४८-१३॥
Vālmīki 7.48.14
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः ।यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ॥७-४८-१४॥
Vālmīki 7.48.15
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ॥७-४८-१५॥
Vālmīki 7.48.16
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् ।अहं तु नानुशोचामि स्वशरीरं नरर्षभ ॥७-४८-१६॥
Vālmīki 7.48.17
यथापवादं पौराणां तथैव रघुनन्दन ।पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ॥७-४८-१७॥
Vālmīki 7.48.18
प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः ।इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः ।निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ॥७-४८-१८॥
Vālmīki 7.48.19
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ।शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ॥७-४८-१९॥
Vālmīki 7.48.20
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ।ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ॥७-४८-२०॥
Vālmīki 7.48.21
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे ।कथमत्र हि पश्यामि रामेण रहितां वने ॥७-४८-२१॥
Vālmīki 7.48.22
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् ।आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ॥७-४८-२२॥
Vālmīki 7.48.23
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ।सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ॥७-४८-२३॥
Vālmīki 7.48.24
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् ।चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ॥७-४८-२४॥
Vālmīki 7.48.25
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः ।निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ॥७-४८-२५॥
Vālmīki 7.48.26
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती ।रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥७-४८-२६॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷