🪷 उत्तरकाण्ड · Sarga 47

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 47 · 18 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.47.1
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ।आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥७-४७-१॥
Vālmīki 7.47.2
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ॥७-४७-२॥
Vālmīki 7.47.3
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ॥७-४७-३॥
Vālmīki 7.47.4
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता ।अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥७-४७-४॥
Vālmīki 7.47.5
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् ।न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥७-४७-५॥
Vālmīki 7.47.6
प्रसीद च न मे पापं कर्तुमर्हसि शोभने ।इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥७-४७-६॥
Vālmīki 7.47.7
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥७-४७-७॥
Vālmīki 7.47.8
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ।पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥७-४७-८॥
Vālmīki 7.47.9
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः ।तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ॥७-४७-९॥
Vālmīki 7.47.10
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥७-४७-१०॥
Vālmīki 7.47.11
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् ।पुरे जनपदे चैव त्वत्कृते जनकात्मजे ।रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ॥७-४७-११॥
Vālmīki 7.47.12
न तानि वचनीयानि मया देवि तवाग्रतः ।यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ॥७-४७-१२॥
Vālmīki 7.47.13
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ।पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ॥७-४७-१३॥
Vālmīki 7.47.14
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ॥७-४७-१४॥
Vālmīki 7.47.15
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥७-४७-१५॥
Vālmīki 7.47.16
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ।सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥७-४७-१६॥
Vālmīki 7.47.17
पादच्छायामुपागम्य सुखमस्य महात्मनः ।उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥७-४७-१७॥
Vālmīki 7.47.18
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥७-४७-१८॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷